ब्रम्हा वैवर्त पुराण

ब्रह्मवैवर्तपुराणं( Brahmavaivarta Purana) वेदमार्गस्य दशमं पुराणम् । अस्मिन् पुराणे भगवतः श्रीकृष्णस्य लीलानां विस्तृतरूपेण वर्णनं, श्रीराधायाः गोलोकलीलायाः अवतारलीलायाः च सुन्दरविवेचनानि, विभिन्नदेवतानां महिमा, तेषां साधनोपासनानां सुन्दरनिरूपणं च अस्ति। अनेकानि भक्तिपराणि आख्यानानि, स्तोत्राणि च अस्मिन् ग्रन्थे सङ्गृहीतानि सन्ति। इदं पुराणं चतुर्षु खण्डेषु विभक्तमस्ति। ब्रह्मखण्डः, प्रकृतिखण्डः, श्रीकृष्णजन्मखण्डः गणेशखण्डः चेति।