कुर्मपुराण

कूर्मपुराणम्
 (Kurmapurana)अष्टादशसु महापुराणेषु अन्यतमम् अस्ति | इदं पुराणं साक्षात् कूर्मावतारी भगवान् विष्णुः नारदम् उपदिष्टवान् इति श्रूयते | नारदमहर्षिः सूतमुनिम् इदम् उपदिष्टवान् अस्ति । समुद्रमथनकाले प्रचलित।विषयमथनमेव कूर्मपुराणं। कूर्मपुराणं द्विधा विभक्तम् अस्ति - पूर्वभागः उत्तरभागः चेति | पूर्वभागे ५३ अध्यायाः, उत्तरभागे ४६ अध्यायाः विद्यन्ते । पूर्वभागे वराह,नरसिंह,वामन,व्यास,कृष्णावतारचर्तं निवेदयति। उत्तरार्धस्तु शिवचरित्रं,तीर्थमहिमां धर्मशास्त्रविषयान् निरूपयति। मूलतः कूर्मपुराणे चतस्रः संहिताः आसन् इति श्रूयते । ताः - ब्राह्मी, भागवती, सौरी, वैष्णवी च ।ब्राह्मीसंहितायां ६००० श्लोकाः, भागवतीसंहितायां ४००० श्लोकाः, सौरीसंहितायां २००० श्लोकाः, वैष्णवीसंहितायां ५००० श्लोकाः विद्यनते । अधुना उपलभ्यमानाः श्लोकाः ब्राह्मीसंहितायां विद्यमानाः ।भागवतीसंहिता वर्णाश्रमादिनियमान् ,सौरीसंहिता षट्कमविचारान्,वैष्णवीसंहिता मोक्षविषयान् निरूपयति।