पचति इत्यादौ तिडन्ते प्रकृतिः पचधातुः, प्रत्यायश्च तिङ् । ‘पक्ववान्’ , ‘पचन्’ इत्यादौ कृदन्तेऽपि प्रकृतिः प्रत्ययश्च भवतः । तत्रापि प्रकृतिः धातुः, प्रत्ययश्च कृत् । एवञ्च धातोः द्वये प्रत्ययाः –तिङ्ः कृतश्चेति । तत्र धातोः अर्थः निरुप्यते । तथाहि – धातुः फलं व्यापारं च बोधयति । यथा –‘पचति’ इत्यत्र पच्धातुः अस्ति । सः पच्धातुः विक्लित्तिरुपं फलं (विक्लित्तिः= मृदुविशदत्वम् । तण्डुलादौ जायमानः विकारः इति यावत् ) तदनुकूलव्यापारञ्च बोधयति । एवञ्च पच्धातोः अर्थः विक्लित्त्यनुकूलव्यापारः इति । यथा वा –

  1. गच्छति । अत्र गम् धातुः संयोगरुपं फलं तदनुकूलव्यापारञ्च् बोधयति । अतः गम् धातोः अर्थः- संयोगानुकूलव्यापारः इति ।

  2. वर्धते । अत्र वृध्धातुः वर्धनरुपं फलं, तदनुकूलव्यापारं च बोधयति । अतः वृध्धातोः अर्थः-वर्धनानुकूलव्यापारः इति ।

इत्थं च सर्वे धातवः ‘फलं व्यापारश्च’ इत्यर्थद्वयं बोधयन्ति इति ज्ञेयम् ।