कमला सोहोनी १०१२ तमे वर्षे अजायत । तस्याः पिता नारायणराव् भागवत् कश्चन रसायनतज्ञः । कमला बाम्बे-विश्वविद्यालयतः भौतशास्त्रे रसायनशास्त्रे च अध्ययनं कृत्वा विज्ञानविषये पदवीं प्राप्तवती । भारतीयविज्ञानमन्दिरे संशोधनच्छात्रत्वेन स्वीकरणाय आवेदनं तया कृतम् । किन्तु तदनीन्तनेन निर्देशकेन सि वि रामनवर्येण तस्याः आवेदनं तिरस्कृतं यतः महिलाः संशोधनसमर्थाः न इति धिया । अनुरोधेन तया विज्ञानमन्दिरे अनुमतिः प्राप्ता किन्तु प्रथमवर्षस्य कार्यं परिशील्य ततः पूर्णतया अङ्गीक्रियते इति सूचितम् ।


सि वि रामनवर्यस्य नियमान् अङ्गीकृत्य १९३३ तमे वर्षे कमला भारतीयविज्ञानमन्दिरं प्राविशत् । तस्याः मार्गदर्शकः आसीत् श्री श्रीनिवासय्यः । तस्याः कार्येण सन्तुष्टः सि वि रामनः अग्रिमसंशोधनाय अनुमतिम् अयच्छत् । सा आहारेषु विद्यमानानां प्रोटीन्-अंशानां विषये संशोधनम् अकरोत् येन तया विज्ञानविषये स्नातकोत्तरपदवी प्राप्ता । आहारे विद्यमानानां प्रोटीन्-अंशानां विषये तया संशोधनं कृतं येन जैविकरसायनशास्त्रे स्नातकोत्तरपदवी प्राप्ता । केम्ब्रिड्ज्-विश्वविद्यालये डा डेरिक् रिचर् वर्यस्य साहायिकारूपेण कार्यकरणाय तया आह्वानं प्राप्तम् । सा जैविकरसायनज्ञेन डा रोबिन् हिल् वर्येण सह कार्यं कृतवती, सेल्युलर् एन्जैम् सैटोक्रोम् विषये संशोधनम् अकरोत् ।  संशोधनाय केम्ब्रिड्ज्-विश्वविद्यालयतः विद्यावारिधिः तया प्राप्ता ।

कमला १९३९ तमे वर्षे भारतं प्रत्यागतवती । सा नवदेहल्याः लेडी हार्डिङ्ग् मेडिकल् महाविद्यालये जैविकरसायनशास्त्रविभागे प्राध्यापिकारूपेण नियुक्ता जाता । सा कूनूर् न्यूट्रिशन् संशोधनप्रयोगालये कार्यम् अकरोत् । [४] एम् वि सोहनिवर्यं वृतवती एषा १९४७ तमे वर्षे मुम्बयीं गतवती । सा बाम्बेनगरस्य रायल् इन्स्टिट्यूट् आफ् सैन्स् महाविद्यालयस्य जैविकरसायनशास्त्रविभागे प्राध्यापिकारूपेण नियुक्ता जाता । अपुष्टबालानां कृते तया 'नीरा' नामकं पानीयं निर्मितम् । अयमेकः उत्तमः पौष्टिकाहारः विद्यते । अस्य कार्याय तया राष्ट्रपतिप्रशस्तिः प्राप्ता ।  बेङ्गलूरुनगरे विद्यमानस्य भारतीयविज्ञानमन्दिरस्य निर्देशिकारूपेण अपि इयं कार्यम् अकरोत् ।

नवदेहल्यां भारतीयवैद्यकीयसंशोधनमण्डल्या आयोजिते सम्मानकार्यक्रमे भागं गृहीतवती कमला सोहानी तदनन्तरम् अचिरादेव अस्वस्था सती मरणं प्राप्नोत् ।