परशुरामः कश्चन महर्षिः । भृगुवंशस्य जमदग्निमहर्षिः एतस्य पिता । राजाप्रसेनजितस्य पुत्री रेणुका एतस्य माता । महाविष्णोः दशसु अवतारेषु परशुरामस्य षष्टः अवतारः । महापराक्रमशाली । उन्मत्तानां क्षत्रियाणां नाशनार्थं विष्णुः इदानीन्तनस्य वैवस्वतमन्वन्तरस्य नवदशे त्रेतायुगे परशुरामस्य रूपेण अवतारं कृतवान् । रुमण्वन्तः, सुषेणः, वसुः, विश्वावसुः च अस्य चत्वारः सहोदराः ।

पराक्रमः

पितुः जमदग्नेः आज्ञानुसारं मातुः रेणुकायाः कण्ठमेव कर्तयित्वा पुनः पितुः वरदानेन ताम् उज्जीवितवान् । कार्तवीर्यार्जुनस्य सहस्रबाहून् कर्तितवान् । एकविंशतिवारं क्षत्रियान् मारयित्वा तेषां रक्तेन पितृभ्यः तर्पणं दत्तवान् । श्रीरामेण पराजयं प्राप्तवतः तस्य वैष्णवतेजः नष्टमभवत् । परशुरामः पाण्डवैः सह सन्धिं कर्तुं दुर्योधनं हितवचनम् उक्तवान् । भीष्माचार्येण सह युद्धं कृतवान् ।

बोधनम्

कर्णः ब्राह्मणवेषेण गत्वा परशुरामे अस्त्रविद्याभ्यासं कृतवान् । किन्तु यदा परशुरामेण कर्णः अब्राह्मणः इति ज्ञातं तदा 'भवता अधीता विद्या युद्धावसरे विस्मृता भवतु' इति कर्णं शप्तवान् । एषः सुवर्णमाहात्म्यस्य विषये वसिष्ठेन सह संवादं कृतवान् । वसिष्ठस्य पूर्वजानां वृत्तान्तं श्रृत्वा ज्ञातवान् । परशुरामः द्रोणाय अस्त्रविद्याभ्यासं कारितवान् । अश्वमेधयागं कृत्वा पूर्णभूमण्डलं कश्यपाय दानं कृतवान् । परशुरामः विद्यमानस्य सप्तमस्य वैवस्वतमन्वन्तरस्य अनन्तरस्य अष्टमसावर्णिमन्वन्तरे सप्तर्षिषु अन्यतमः भवति ।

शिवभक्तिः

पितुः मरणानन्तरं दुःखितः एषः शिवं शरणं गतवान् । सन्तुष्टः शिवः परशुम् अनुगृहीतवान् । देवी दिव्यास्त्राणि दत्तवती । शिवेण एषः पापरहितः, अजेयः, जरामरणरहितः च अभवत् । शिवस्य अनुग्रहेण एतेन सर्वं प्राप्तम् । भृगुवंशोद्भवः, जमदग्नेः पुत्रः परशुरामः लोकहितार्थं पुनःपुनः तीव्रनिष्ठया तपः कुर्वन् महेन्द्रपर्वते इदानीमपि अस्ति इति विश्वस्यते ।

बाह्यसम्पर्कातन्तुः