केनोपनिषद सामवेदिय शाखा के अन्तर्गत एक उपनिषद है। यह उपनिषद संस्कृत भाषा में लिखित है। इसके रचियता वैदिक काल के ऋषियों को माना जाता है परन्तु मुख्यत वेदव्यास जी को कई उपनिषदों का लेखक माना जाता है।

केनोपनिषत् (Kenopanishat) प्राचीनासु दशसु उपनिषत्सु अन्यतमा । अस्यां ३४ मन्त्राः विद्यन्ते । अस्याः उपनिषदः प्रमुखः विषयः भवति ब्रह्मविद्या । परब्रह्मस्वरूपः परमात्मा इन्द्रियातीतः, सः एव सर्वप्रेरकः इत्ययं विषयः समीचीनतया वर्णितः वर्तते । ब्रह्मज्ञानिनः लक्षणानि कानि इत्येतं विषयं मनोरञ्जकरीत्या विरोधाभासयुक्तैः वचनैः वर्णितवन्तः सन्ति । कापि देवता न स्वतन्त्रा, सर्वाः देवताः परब्रह्मणा प्रेरिताः इत्ययं सिद्धान्तः अत्र प्रदर्शितः अस्ति । 'एकं सद्विप्रा बहुधा वदन्ति' इत्यस्य वा 'एकमेवाद्वितीयम्' इत्यस्य श्रुतिवाक्यस्य मनोहरं व्याख्यानरूपं वर्तते केनोपनिषत् । परमसत्यम् एकमेव विद्यते, तच्च अतीन्द्रियं विद्यते इत्येतत् तत्त्वद्वयमेव अत्र कविभिः चर्चितः प्रमुखः विषयः ।

प्रथमः खण्डः
केनेषितं पतति प्रेषितं मनः। केन प्राणः प्रथमः प्रैति युक्तः।
केनेषितां वाचमिमां वदन्ति। चक्षुः श्रोत्रं क उ देवो युनक्ति ॥ ||१||

श्रोत्रस्य श्रोत्रं मनसो मनो यत्। वाचो ह वाचं स उ प्राणस्य प्राणः।
चक्षुषश्चक्षुरतिमुच्य धीराः। प्रेत्यास्माल्लोकादमृता भवन्ति ॥ ||२||

न तत्र चक्षुर्गच्छति न वाग्गच्छति नो मनो
न विद्मो न विजानीमो यथैतदनुशिष्यात्।
अन्यदेव तद्विदितादथो अविदितादधि।
इति शुश्रुम पूर्वेषां ये नस्तद्व्याचचक्षिरे ॥ ||३||

यद्वाचानभ्युदितं येन वागभ्युद्यते।
तदेव ब्रह्म त्वं विद्धि नेदं यदिदमुपासते ॥ ||४||

यन्मनसा न मनुते येनाहुर्मनो मतम्‌।
तदेव ब्रह्म त्वं विद्धि नेदं यदिदमुपासते ॥ ||५||

यच्चक्षुषा न पश्यति येन चक्षूंषि पश्यति।
तदेव ब्रह्म त्वं विद्धि नेदं यदिदमुपासते ॥ ||६||

यच्छ्रोत्रेण न शृणोति येन श्रोत्रमिदं श्रुतम्‌।
तदेव ब्रह्म त्वं विद्धि नेदं यदिदमुपासते ॥ ||७||

यत्प्राणेन न प्राणिति येन प्राणः प्रणीयते।
तदेव ब्रह्म त्वं विद्धि नेदं यदिदमुपासते ॥ ||८||

द्वितीयः खण्डः
यदि मन्यसे सुवेदेति दभ्रमेवापि नूनं त्वं वेत्थ ब्रह्मणो रूपम्‌।
यदस्य त्वं यदस्य देवेष्वथ नु मीमांस्यमेव ते मन्ये विदितम्‌ ॥ ||१||

नाहं मन्ये सुवेदेति नो न वेदेति वेद च।
यो नस्तद्वेद तद्वेद नो न वेदेति वेद च ॥ ||२||

यस्यामतं तस्य मतं मतं यस्य न वेद सः।
अविज्ञातं विजानतां विज्ञातमविजानताम्‌ ॥ ||३||

प्रतिबोधविदितं मतममृतत्वं हि विन्दते।
आत्मना विन्दते वीर्यं विद्यया विन्दतेऽमृतम्‌ ॥ ||४||

इह चेदवेदीदथ सत्यमस्ति। न चेदिहावेदीन्महती विनष्टिः।
भूतेषु भूतेषु विचित्य धीराः। प्रेत्यास्माल्लोकादमृता भवन्ति ॥ ||५||

तृतीय खण्डः
ब्रह्म ह देवेभ्यो विजिग्ये तस्य ह ब्रह्मणो विजये देवा अमहीयन्त।
त ऐक्शन्तास्माकमेवायं विजयोऽस्माकमेवायं महिमेति ॥ ||१||

तद्धैषां विजज्ञौ तेभ्यो ह प्रादुर्बभूव तन्न व्यजानत किमिदं यक्षमिति ॥ ||२||

तेऽग्निमब्रुवन् जातवेद एतद्विजानीहि किमेतद्यक्षमिति तथेति ॥ ||३||

तदभ्यद्रवत्तमभ्यवदत्कोऽसीत्यग्निर्वा अहमस्मीत्यब्रवीज्जातवेदा वा अहमस्मीति ॥ ||४||

तस्मिंस्त्वयि किं वीर्यमित्यपीदं सर्वं दहेयं यदिदं पृथिव्यामिति ॥ ||५||

तस्मै तृणं निदधावेतद्दहेति तदुपप्रेयाय सर्वजवेन तन्न शशाक दग्धुं स तत एव निववृते नैतदशकं विज्ञातुं यदेतद्यक्शमिति ॥ ||६||

अथ वायुमब्रुवन् वायवेतद्विजानीहि किमेतद्यक्शमिति तथेति ॥ ||७||

तदभ्यद्रवत्तमभ्यवदत् कोऽसीति वायुर्वा अहमस्मीत्यब्रवीन्मातरिश्वा वा अहमस्मीति ॥ ||८||

तस्मिंस्त्वयि किं वीर्यमित्यपीदं सर्वमाददीय यदिदं पृथिव्यामिति ॥ ||९||

तस्मै तृणं निदधावेतदादत्स्वेति तदुपप्रेयाय सर्वजवेन तन्न शशाकादातुं स तत एव निववृते नैतदशकं विज्ञातुं यदेतद्यक्शमिति ॥ ||१०||

अथेन्द्रमब्रुवन् मघवन्नेतद्विजानीहि किमेतद्यक्शमिति तथेति तदभ्यद्रवत् तस्मात्तिरोदधे ॥ ||११||

स तस्मिन्नेवाकाशे स्त्रियमाजगाम बहुशोभमानामुमां हैमवतीं तां होवाच किमेतद्यक्शमिति ॥ ||१२||

चतुर्थः खण्डः
सा ब्रह्मेति होवाच ब्रह्मणो वा एतद्विजये महीयध्वमिति ततो हैव विदाञ्चकार ब्रह्मेति ॥ ||१||

तस्माद्वा एते देवा अतितरामिवान्यान्देवान्यदग्निर्वायुरिन्द्रस्ते ह्येनन्नेदिष्ठं पस्पर्शुस्ते ह्येनत्प्रथमो विदाञ्चकार ब्रह्मेति ॥ ||२||

तस्माद् वा इन्द्रोऽतितरामिवान्यान्देवान्स ह्येनन्नेदिष्ठं पस्पर्श स ह्येनत्प्रथमो विदाञ्चकार ब्रह्मेति ॥ ||३||

तस्यैष आदेशो यदेतद्विद्युतो व्यद्युतदा इतीन्न्यमीमिषदा इत्यधिदैवतम्‌ ॥ ||४||

अथाध्यात्मं यद्देतद् गच्छतीव च मनोऽनेन चैतदुपस्मरत्यभीक्श्णं सङ्कल्पः ॥ ||५||

तद्ध तद्वनं नाम तद्वनमित्युपासितव्यं स य एतदेवं वेदाभि हैनम् सर्वाणि भूतानि संवाञ्छन्ति॥ ||६||

उपनिषदं भो ब्रूहीत्युक्ता त उपनिषद् ब्राह्मीं वाव त उपनिषदमब्रूमेति ॥ ||७||

तस्यै तपो दमः कर्मेति प्रतिष्ठा वेदाः सर्वाङ्गानि सत्यमायतनम्‌ ॥ ||८||

यो वा एतामेवं वेदापहत्य पाप्मानमनन्ते स्वर्गे लोके ज्येये प्रतितिष्ठति प्रतितिष्ठति ॥ ||९||

 

द्वितीयं खण्डं चतुर्थखण्डस्य द्वित्रान् श्लोकान् विहाय अवशिष्टभागेषु भाषा अतीव सरला विद्यते । द्वितीयखण्डस्य क्लेशस्य हेतुः भवति तत्र उपयुक्ता सङ्क्षेपपद्धतिः । चतुर्थखण्डस्य क्लेशस्य मूलं भवति तत्र उपयुक्तानि पारिभाषिकपदानि ।

 

परब्रह्म अतीन्द्रियवस्तु विद्यते । सृष्टजगति विद्यमानानि सूक्ष्मतमानि वस्तूनि विविधैः यान्त्रिकोपकरणानां साहाय्येन द्रष्टुं शक्यानि, अभिज्ञातुं शक्यानि । किन्तु येन वस्तुना इयम् इन्द्रियशक्तिः निर्मिता वर्तते तस्य दर्शनं कथम् ? नेत्राभ्यां जगत् द्रष्टुं शक्यम्, किन्तु नेत्रयोः दर्शनं कथम् ? अतः एव तत् परब्रह्म नेत्रयोः नेत्रं, कर्णयोः कर्णः इति निर्दिष्टम् । नेत्रयोः नेत्रं नाम नेत्रदर्शनस्य सामर्थ्यं यस्मिन् विद्यते सः इत्यर्थः । नेत्रं यया शक्त्या द्रष्टुं शक्नोति तस्याः शक्तेः दाता, प्रेरकः वर्तते सः । अतः सः इन्द्रियैः अगोचरः, इन्द्रियातीतः च ।

 

आर्यऋषीणां दृष्टिः अत्यन्तं सूक्ष्मा आसीत् इति प्रतिपदम् अस्माभिः अवगम्यते । प्रत्येकस्मिन् विषये अपि मूलतत्त्वानाम् अन्वेषणं तेषां सहजः स्वभावः आसीत् ।

शान्तिमन्त्रः

ॐ आप्यायन्तु ममाङ्गानि वाक्प्राणश्चक्षुः

श्रोत्रमथो बलमिन्द्रियाणि च सर्वाणि।

सर्वम् ब्रह्मौपनिषदम् माऽहं ब्रह्म

निराकुर्यां मा मा ब्रह्म

निराकरोदनिराकरणमस्त्वनिराकरणम् मेऽस्तु।

तदात्मनि निरते य उपनिषत्सु धर्मास्ते

मयि सन्तु ते मयि सन्तु।

ॐ शान्तिः शान्तिः शान्तिः॥

प्रथमखण्डः

इयमुपनिषत् [[सामवेदः|सामवेदी]यतलवकारब्राह्मणे नवमाध्यायान्तर्गता । अस्यां परब्रह्मतत्त्वचिन्तनं गुरुशिष्ययोः प्रश्नप्रतिवचनद्वारा क्रियते । केन इति प्रश्नपूर्वकम् आरभ्यते इति कारणात् इदं नाम । इह जिज्ञासुः शिष्यः गुरुं पृच्छति, केनेषितं पतति इत्यनेन मनुष्यस्य यानि जडरूपाणि कर्मेन्द्रियाणि ज्ञानेन्द्रियाणि च उभयविधानि भवन्ति, एतेषां शब्दादिविषयेषु नियोगः केन क्रियते ? तदा गुरुः प्रत्युत्तरति – यः सर्वज्ञः सर्वव्यापी परमात्मा एव अत्र सर्वाणि इन्द्रियाणि नियुङ्क्ते तत्तद्विषयेषु सः एव श्रोत्रस्य श्रोत्रम्, मनसो मनः इत्यादिना सर्वजगतः मूलरुपः । एतत् तत्त्वं विदित्वा धीराः अमृताः भवन्ति ।

द्वितीयखण्डः

द्वितीयखण्डे तावत् आदौ शिष्यस्य अहं ब्रह्म सुवेद इत्याकारकदुरभिमानस्य निवारणार्थं यदि मन्यसे इत्यादिना आरभ्यते । यतः ब्रह्मणः पूर्णज्ञानमस्यां संसारदशायां न भवति । यदा च त्रिपुटिलयः भवति तदा एव । यः मतमिति वदति तस्य निश्चयेन अमतं ब्रह्म । सर्वबौद्धप्रत्ययेषु अनुस्यूतं ब्रह्मतत्त्वं यः वेत्ति सः अमृतत्वं प्राप्नोति । इह चेदवेदीत् इत्यनेन ब्रह्मजिज्ञासाकर्तव्यता मानवे जन्मनि एव इति निश्चीयते ।

तृतीयखण्डः

तृतीयखण्डे तु आख्यायिका विद्यते देवानां दुर्महिमानगर्वप्रहरणरूपा । तत्रादौ परमात्मा यक्षरूपेण आविर्भवति । तद्विज्ञातुम् आदौ गच्छति अग्निः । गत्वा च स्वस्य गर्वं दर्शयति सर्वं दहेयं यदिदं पृथिव्याम् इत्यनेन । तदा यक्षेण स्थापितं किञ्चन तृणमपि दग्धुमशक्तः प्रतिनिवर्तते । एवमेव वायुरपि आगत्य गर्वभङ्गपुरस्सरं प्रतिगच्छति । यदा इन्द्रः आगच्छति तदा यक्षः अन्तर्हितो भवति तस्मिन् स्थाने हैमवती उमा प्रत्यक्षा भवति । सा ब्रह्मतत्वस्य विषये वक्ति यत् देवानां गर्वभङ्गार्थमेव ब्रह्म यक्षरूपेण आगतम् इति । अन्ते च परब्रह्मोपासनमुक्तम् आधिदैविकाध्यात्मिकरूपेण । तस्य फलमपि उक्तं तस्य साधकस्य कृते सर्वाणि भूतानि चिदानन्दमयानि भवन्ति । सर्वभूतानां प्रियतमो भवति अयम् ।

शब्दार्थाः

उपनिषत् - ब्रह्मविद्या

प्रतिबोधः - ध्यानम्

दभ्र - स्वल्पम्

जातवेदः - ज्ञानी (अग्नेः नाम)

अमृतत्त्वम् - नाशरहिता नित्यानन्दस्थितिः

यक्षः - अद्भुतं पूज्यं वस्तु

मातरिश्वन् - वायुः, अन्तरङ्गे सञ्चारकः

आधिदैविकम् - दैवशक्तिसम्बद्धम्

अध्यात्मिकम् - आत्मसम्बद्धम्

प्रतिष्ठा - आधारः

अभिक्ष्णम् - इष्टम्

वनम् - आनन्दरूपम्

ज्येयम् - श्रेष्ठम्

बाह्यसम्पर्कतन्तुः