कठोपनिषत् प्रमुखासु दशसु उपनिषत्सु अन्यतमा । कठोपनिषदः (Kathopanishat) काठकोपनिषदित्यपि नाम वर्तते । कृष्णयजुर्वेदीया इयम् उपनिषत् । अस्याम् उपनिषदि अध्यायद्वयं वर्तते । प्रत्येकस्मिन् अपि अध्याये तिस्रः वल्ल्यः विद्यन्ते । यम-नचिकेतसोः संवादरूपेण इयम् उपनिषद् वर्तते ।

शान्तिमन्त्रः
ॐ सह नाववतु ।
सह नौ भुनक्तु ।
सह वीर्यं करवावहै ।
तेजस्विनावधीतमस्तु मा विद्विषावहै॥
ॐ शान्तिः शान्तिः शान्तिः॥

उपनिषत्सारः

इयमुपनिषत् आत्मविषयिण्या आख्यायिकया आरभ्यते । प्रामुख्येन यमनचिकेतसोः प्रश्नप्रतिवचनरुपा अस्ति ।

वाजश्रवाः लौकिककीर्तेः आशया विश्वजिद्यागं कर्तुम् उद्यतः भवति । याजकः स्वीयसमग्रायाः सम्पत्तेः दानं कुर्यादित्येषा अस्य यज्ञस्य प्रमुखविधिः । इमं विधिम् अनुसरन् सः स्वस्य सर्वसम्पत्तेः दानं कृतवान् । सः निर्धनः आसीत् इत्यतः तत्समीपे विद्यमानाः काश्चन गाः पीतोदका जग्धतृणा दुग्धदोहा निरिन्द्रियाः सत्यः दुर्बला आसन् । पिता ताः गाः यदि ददाति तर्हि निश्चयेन पुण्यं न प्राप्स्यति, तेन क्रियमाणं यज्ञं विफलं न भवेत् तथा मया करणीयम् इति चिन्तयित्वा तदीयः कनीयान् पुत्रः नचिकेताः स्वपितरमुपसर्प्य मां कस्मै ददाति इति द्विकृत्वः त्रिकृत्वः पृच्छति । तदा कुपितः पिता यमाय दास्यामि इति वदति ।

किञ्चित् कालानन्तर आत्मना कृतं दोषम् अवगतवान् वाजश्रवाः पुत्रं यमसमीपं प्रेषणे उद्युक्तः न भवति । तदा मनुष्यस्य क्षणभङ्गुरत्वं दर्शयित्वा प्राचीनानाम् अधुना विद्यमानानां श्रेष्ठपुरुषाणाम् उदाहरणानि यच्छन् प्रतिज्ञावचनानुगुणं व्यवहर्तुं पितरम् अङ्गीकारितवान् नचिकेताः । ततः यमलोकं गतः नचिकेताः यमस्य अनुपस्थितेः कारणतः दिनत्रयम् आहारेण विना तस्य प्रतीक्षां करोति । दिनत्रयानन्तरम् आगतः यमः स्वस्य विलम्बकारणात् बालकः निराहारः आसीत् इति बहु खिन्नः जातः । तं वरत्रयं प्रष्टुं यमः सूचयति ।



.

वरत्रयम्


पितुः कोपः उपशान्तः स्यात् । स्वस्य प्रतिगमनानन्तरं पिता माम् अभिजानन् प्रेम्णा सम्भाषणं कुर्यादिति प्रथमं वरं पृच्छति । तथैव भवतु इति वदन् यमः तम् आशिषा अनुगृह्णाति ।
द्वितीयेन वरेण अग्न्युपासनायाः ज्ञानं प्राप्नोति । नचिकेतसः जिज्ञासया तीक्ष्णबुद्ध्या ग्रहणसामर्थ्येन च सन्तुष्टः यमः यजनीयाग्निं नाचिकेताग्निः इत्येव निर्दिशति । अग्नेः स्वरूपं, यज्ञविधिम् अग्न्युपासनस्य फलञ्च यमः नचिकेतसं बोधयति ।
तृतीयेन वरेण आत्मज्ञानं प्रार्थयति नचिकेताः । आदौ इदं ज्ञानम् उपदेष्टुं यमः नाङ्गीकरोति । इदं ज्ञानम् अगम्यं दुर्ज्ञेयं वर्तते । तत् मास्तु । सकलैश्वर्यं, दीर्घायुष्यं, स्वर्गसुखसाधनं वा प्रार्थय, दास्यामि इति असकृत् अवदत् यमः । किन्तु नचिकेताः अवदत् - नान्यद् किञ्चिद् अहम् अपेक्षे, आत्मज्ञानमेव अपेक्षितं, कृपया अनुगृह्यताम् इति अवदत् । बालब्रह्मचारिणः सत्यनिष्ठया सन्तुष्टः यमः विस्तारेण ब्रह्मज्ञानम् अबोधयत् -


आत्मस्वरूपम्


अस्मिन् जगति श्रेयः प्रेयः आत्मसुखं विषयसुखम् इति द्विविधं सुखं वर्तते । एतयोः अन्यतरेण प्रेरितः सन् मानवः कस्मिंश्चित् कर्मणि प्रेरितः भवति । बुद्धिमन्तः आत्मसुखं मूढाः विषयसुखं च अपेक्षन्ते । भवान् श्रेयसः प्राप्त्यर्थम् उद्युक्तः अस्ति । आत्मसुखम् आत्मज्ञानेन आत्मनि एव प्राप्यमाणं वस्तु । आत्मा एव सत्यवस्तु । सः एव सर्वस्य आधारभूतः । सः मनुष्यस्य अन्तःकरणे एव गूढरूपेण स्थितः विद्यते । अध्यात्मयोगेन ध्यानेन च तस्य सम्पूर्णं ज्ञानं प्राप्तुं शक्यते । वेदानां विविधव्रतानां च लक्ष्यं भवति अयम् आत्मा । ओङ्कारमन्त्रः एव तस्य आत्मस्वरूपस्य निर्देशः ।
तत्स्वरूपं जननमरणातीतं वर्तते । अनित्येषु नित्यम् अचेतनेषु चैतन्यरूपं वर्तते । तत् सूक्ष्मतमं बृहत्तमञ्च वर्तते । किन्तु इदम् आत्मज्ञानं तर्केण बुद्ध्या प्रवचनेन वेदश्रवणेन च न सिद्ध्यति ।



आत्मज्ञानम्

आत्मप्रसादेन तन्नाम परमात्मनः अनुग्रहेणैव आत्मज्ञानं भविष्यति । अस्मिन् शरीरे जीवात्मपरमात्मानौ छायातपौ इव वसतः । परमात्मसाक्षात्कारं यः इच्छेत् सः मनः इन्द्रियाणि च संयम्य, बुद्धेः परिशुद्धतां सम्पाद्य, परमात्मनः ध्याने निमग्नः भवेत् । बाह्येन्द्रियेभ्यः बहिः बुद्धिः, ततः महदात्मा हिरण्यगर्भो वा, ततः अव्यक्तं, ततः बहिः परमपुरुषश्च विद्यते । सर्वान्तर्यामिणम् इमं गूढात्मानं ध्यानयोगेन, तीक्ष्णबुद्ध्या च जानीयात् । बाह्यशक्तीः ततः बहिः विद्यमानेषु तत्त्वेषु विलयीकुर्वन् ध्यानं कुर्यात् । चित्ते शान्तात्मनः परमात्मनः एव मननम् अविचलं यथा स्यात् तथा लयचिन्तनरूपः ध्यानविधिः अभ्यसितव्यः ।

विश्वस्य सृष्ट्यवसरे परमात्मा स्वीयशक्तीः बहिः विस्तारितवान् । अतः एव अस्माकम् इन्द्रियाणि सर्वदा बहिर्मुखाः भवन्ति । तानि अन्तर्मुखानि भवन्ति चेत् आत्मदर्शनं भविष्यति । तेन आत्मतत्त्वेन एव सृष्टेः उत्पत्तिः । सर्वस्य अपि उगमस्थानं भवति तत् । सर्वस्य विश्वस्य आधारभूतम् इदम् आत्मतत्त्वम् अङ्गुष्ठपरिमाणरूपेण सर्वस्य अपि अन्तःकरणे निवसति । इदम् आत्मतत्त्वं यः ज्ञास्यति सः आत्ममयः, पुनर्जन्मरहितः, अमृतश्च भविष्यति ।


कदा


अस्मिन् एव जन्मनि आत्मज्ञानं प्राप्तव्यम् । यतः इहलोके अस्मिन् एव जन्मनि आत्मज्ञानं स्पष्टतया पूर्णतया च प्राप्तुं शक्यम् । पितृलोके, गन्धर्वलोके, स्वर्गलोके च आत्मसाक्षात्कारः सुष्ठु न भवेत् ।


कथम्



पञ्चेन्द्रियाणि, मनः बुद्धिञ्च स्थिरीकृत्य योगस्थितिः प्राप्तव्या । निश्चले आत्मनि परमात्मनः दर्शनं भविष्यति । परमात्मनि दृढः विश्वासः यदि स्यात् तर्हि कार्यकारणयोः तत्त्वज्ञानं तीव्रं भविष्यति । तस्य ज्ञानस्य प्राप्त्या मिथ्याज्ञानं हिममिव विलयं याति, ततः आत्मज्योतिः सुष्ठु ज्वलति । हृदयात् एकोत्तरशतं नाड्यः प्रतिष्ठन्ते । तेषु अन्यतमा सुषुम्नानाडी । सा ब्रह्मरन्ध्रं प्रति सरति । तेन द्वारा प्राणानाम् आरोहणाय प्रयत्नः विधेयः । ततः अमृतत्त्वं प्राप्यते । अन्तरात्मनः सत्यज्ञानमेव प्रमुखम् । ततः सर्वाः आशाः, मूढभावाः, मिथ्याकल्पनाश्च विनश्यन्ति । तदनन्तरम् इदं नित्यसत्यम् आत्मतत्त्वम् अनित्येभ्यः शरीरादिभ्यः वियोजनीयम् । एवं निश्चयेन धैर्येण च वियोजितेन आत्मतत्त्वेन पूर्णं साक्षात्कारं प्राप्य मनुष्यः जीवन्मुक्तः भिविष्यति । सः निष्पापः, शोकरहितः, भयरहितश्च भविष्यति ।



निरूपणश्लोकाः



अन्ते च नचिकेताः प्रश्नमेकं पृच्छति –अन्यत्रधर्मात् अन्यत्राधर्मात् इत्यादिना ब्रह्मतत्त्वम् । तदा यमः सविस्तरं निरूपयति, न जायते म्रियते वा विपश्चित्, अणोरणीयान् महतो महीयान् इत्यादिद्वारा ।

आत्मनः निरूपणं रथादिकल्पनया स्पष्टं भवति तृतीयवल्याम् । तत्र रथी आत्मा, रथं शरीरं, सारथिः बुद्धिः, प्रग्रहं मनः, हयाः इन्द्रियाणि, मार्गाः विषयाः भवन्ति । परञ्चि खानि व्यतृणत् इत्यादिना धीरस्य वर्णनं श्रूयते । मनसैवेदमाप्तव्यं नेह नानास्ति किञ्चन इत्यादिना धीरस्य वर्णनं श्रूयते । मनसैवेदमाप्तव्यं नेह नानास्ति किञ्चन इत्यादिना च साधनानि कथितानि । ऊर्ध्वमूलोऽवाक्शाख इत्यनेन सर्वसंसारमूलत्वेन ब्रह्मणः निर्देशः च कृतः ।




उपनिषदः वैशिष्ट्यम्



प्रत्येकस्मिन् उपनिषदि अपि ब्रह्मज्ञानविषयः एव विवृतः अस्ति चेदपि सर्वस्मिन् अपि नावीन्यं सौन्दर्यञ्च परिदृश्यते । कठोपनिषदः वैशिष्ट्यं नाम अत्र विद्यमाना लघुकथा । कथा सा न वा महत्त्वपूर्णा न वा चित्ताकर्षिका । किन्तु अत्र चित्रितः कथानायकः अविस्मरणीयः विद्यते । नायकः बालः नचिकेताः षड्वर्षीयमात्रः । तदीया श्रद्धा, पितृभक्तिः, निर्भयत्वम्, इन्द्रियनिग्रहः, शान्तवृत्तिः, ज्ञानपिपासा, निर्मोहः, सत्यधृतिश्च अपूर्वा एव । ब्रह्मज्ञानम् अपेक्षितवतः नचिकेतसः मनोपरिवर्तनाय यमः सकलैश्वर्यं दातुम् उद्युक्तः जातः । किन्तु तत्सर्वं सम्पूर्णतया निराकृतवान् नचिकेताः न वित्तेन तर्पणीयो मनुष्यः इत्येतस्याः उक्तेः उदाहरणरूपः जातः । ब्रह्मज्ञानस्य प्राप्तये कीदृशी दृढा त्यागबुद्धिः अपेक्षिता इति दर्शयति ।

मोक्षदायकं ब्रह्मज्ञानम् इहलोके अस्मिन्नेव जन्मनि प्राप्तव्यम् । अस्मिन् लोके यद् शक्यं तत् नान्यस्मिन् लोके शक्यम् इति स्पष्टं वदति उपनिषत्काराः । आत्मस्थितेः प्राप्तिः बौद्धिकज्ञानेन न भवति इत्येतम् अंशं न मेधया न तर्केण इत्यादिभिः उक्तिभिः पौनःपुन्येन स्मारयन्ति ।




योगविधिः


कठोपनिषदि ब्रह्मविद्यायाः विवेचनमात्रं न ब्रह्मसाक्षात्कारप्राप्तेः 'योगविधिः' अपि उक्तः विद्यते । अत्र लयचिन्तनविधिः निरूपितः अस्ति । देह-इन्द्रिय-मन-आत्मा-इत्येतेषां सम्बन्धं रथ-रथ्योः रूपकद्वारा सुन्दरतया वर्णितः अस्ति । पिण्डाण्डस्य परीक्षा यदि क्रियते तर्हि तस्मिन् बाह्येन्द्रियाणि, ततः बहिः सूक्ष्मेन्द्रियाणि, इन्द्रियाणां शासकः मनः, ततः मनश्शक्तिषु श्रेष्ठा शुद्धबुद्धिः, ततो बहिः आत्मा अन्तरात्मा वा विद्यते । तेषु अन्तरात्मा एव श्रेष्ठः । अतः अन्तःकरणे अन्तरात्मनः संस्थापनमेव मानवस्य लक्ष्यं स्यात् ।

ब्रह्माण्डे पञ्चभूतानि, पञ्चतन्मात्राणि विद्यन्ते । ततो बहिः अव्यक्तब्रह्मा तन्नाम हिरण्यगर्भः, ततो बहिः परमपुरुषः विद्यते । पिण्डे विद्यमानः अन्तरात्मा अङ्गुष्ठपरिमाणस्य पुरुषो वा ब्रह्माण्डस्य परमपदव्याम् अधिष्ठितः परमात्मा च तत्त्वतः अभिन्नौ इत्येतस्य ज्ञानेन साधनं सुलभायते ।


सोपानानि



सर्वज्ञपुरुषे दृढः विश्वासः । इदं योगविधेः प्रथमं सोपानम् ।
कार्यरूपस्य अस्य विश्वस्य स्वस्वरूपं ज्ञात्वा निर्मोहः सन् सर्वदा स्वस्वरूपज्ञाने वर्तनं द्वितीयं सोपानम् ।
आत्मज्ञानम् अन्तःकरणे निरन्तरं यथा स्यात् तथा 'आत्मतत्त्वस्य' ध्यानकरणमेव तृतीयं सोपानम् ।
इदं ध्यानं स्थिरतां यदा प्राप्नोति तदा अहम्भावः देहादिवस्तूनि परित्यज्य अन्तःकरणे वसतः केवलात्मनि स्थिरः भवेत् । सच्चिदानन्दस्वरूपस्य परमात्मनः साक्षात्कारः एव योगविधेः अन्तिमं सोपानम् ।



अपूर्वाः केचन मन्त्राः


धीरस्य वर्णनम्




श्रेयश्च प्रेयश्च मनुष्यमेतः तौ सम्परीत्य विविनक्ति धीरः ।
श्रेयो हि धीरोऽभि प्रेयसो वृणीते प्रेयो मन्दो योगक्षेमाद्वृणीते ॥ ॥ – १.२.२.॥

उत्तिष्ठत जाग्रत प्राप्य वरान्निबोधत ।
क्षुरस्य धारा निशिता दुरत्यया दुर्गं पथस्तत्कवयो वदन्ति ॥ – १.३.१४ ॥



ब्रह्मतत्त्वस्य महत्त्वम्


एतदालम्बनं श्रेष्ठमेतदालम्बनं परम् ।
एतदालम्बनं ज्ञात्वा ब्रह्मलोके महीयते ॥ - १.२.१७

न जायते म्रियते वा विपश्चिन्नायं कुतश्चिन्न बभूव कश्चित् ।
अजो नित्य्ः शाश्वतोयं पुराणो न हन्यते हन्यमाने शरीरे ॥ - १.२.१८

अणोरणीयान्महतो महीयानात्मास्य जन्तोर्निहितो गुहायाम् ।
तमक्रतुः पश्यति वीतशोको धातुः प्रसादान्महिमानमात्मनः ॥ - १.२.२०

अध्याय १
वल्ली १
ॐ उशन्‌ ह वै वाजश्रवसः सर्ववेदसं ददौ।
तस्य ह नचिकेता नाम पुत्र आस ॥ ||१||

तं ह कुमारं सन्तं दक्षिणासु नीयमानासु श्रद्धाऽऽविवेश। सोऽमन्यत ॥ ||२||

पीतोदका जग्धतृणा दुग्धदोहा निरिन्द्रियाः।
अनन्दा नाम ते लोकास्तान्स गच्छति ता ददत्‌ ॥ ||३||

स होवाच पितरं तत कस्मै मां दास्यसीति।
द्वितीयं तृतीयं तं होवाच मृत्यवे त्वा ददामीति ॥ ||४||

बहूनामेमि प्रथमो बहूनामेमि मध्यमः।
किं स्विद्यमस्य कर्तव्यं यन्मयाद्य करिष्यति ॥ ||५||

अनुपश्य यथा पूर्वे प्रतिपश्य तथाऽपरे।
सस्यमिव मर्त्यः पच्यते सस्यमिवाजायते पुनः ॥ ||६||

वैश्वानरः प्रविशत्यतिथिर्ब्राह्मणो गृहान्‌।
तस्यैतां शान्तिं कुर्वन्ति हर वैवस्वतोदकम्‌ ॥ ||७||

आशाप्रतीक्षे संगतं सूनृतां चेष्टापूर्वे पुत्रपशूंश्च सर्वान्‌।
एतद्‌ वृङ्क्ते पुरुषस्याल्पमेधसो यस्यानश्नन्वसति ब्राह्मणो गृहे ॥ ||८||

तिस्रो रात्रीर्यदवात्सीर्गृहे मेऽनश्नन्ब्रह्मन्नतिथिर्नमस्यः।
नमस्तेऽस्तु ब्रह्मन्स्वस्ति मेऽस्तु तस्मात्प्रति त्रीन्वरान्वृणीष्व ॥ ||९||

शान्तसंकल्पः सुमना यथा स्याद्वीतमन्युर्गौतमो माभि मृत्यो।
त्वत्प्रसृष्टं माभिवदेत्प्रतीत एतत्त्रयाणां प्रथमं वरं वृणे ॥ ||१०||

यथा पुरस्ताद्‌ भविता प्रतीत औद्दालकिरारुणिर्मत्प्रसृष्टः।
सुखं रात्रीः शयिता वीतमन्युस्त्वां ददृशिवान्मृत्युमुखात्प्रमुक्तम्‌ ॥ ||११||

स्वर्गे लोके न भयं किञ्चनास्ति न तत्र त्वं न जरया बिभेति।
उभे तीर्त्वाऽशनायापिपासे शोकातिगो मोदते स्वर्गलोके ॥ ||१२||

स त्वमग्निं स्वर्ग्यमध्येषि मृत्यो प्रब्रूहि त्वं श्रद्दधानाय मह्यम्‌।
स्वर्गलोका अमृतत्वं भजन्त एतद्‌ द्वितीयेन वृणे वरेण ॥ ||१३||

प्र ते ब्रवीमि तदु मे निबोध स्वर्ग्यमग्निं नचिकेतः प्रजानन्‌।
अनन्तलोकाप्तिमथो प्रतिष्ठां विद्धि त्वमेतं निहितं गुहायाम्‌ ॥ ||१४||

लोकादिमग्निं तमुवाच तस्मै या इष्टका यावतीर्वा यथा वा।
स चापि तत्प्रत्यवदद्यथोक्तमथास्य मृत्युः पुनरेवाह तुष्टः ॥ ||१५||

तमब्रवीत्प्रीयमाणो महात्मा वरं तवेहाद्य ददामि भूयः।
तवैव नाम्ना भविताऽयमग्निः सृङ्कां चेमामनेकरूपां गृहाण ॥ ||१६||

त्रिणाचिकेतस्त्रिभिरेत्य सन्धिं त्रिकर्मकृत्तरति जन्ममृत्यू।
ब्रह्मजज्ञं देवमीड्यं विदित्वा निचाय्येमां शान्तिमत्यन्तमेति ॥ ||१७||

त्रिणाचिकेतस्त्रयमेतद्विदित्वा य एवं विद्वांश्चिनुते नाचिकेतम्‌।
स मृत्युपाशान्पुरतः प्रणोद्य शोकातिगो मोदते स्वर्गलोके ॥ ||१८||

एष तेऽग्निर्नचिकेतः स्वर्ग्यो यमवृणीथा द्वितीयेन वरेण।
एतमग्निं तवैव प्रवक्श्यन्ति जनासस्तृतीयं वरं नचिकेतो वृणीष्व ॥ ||१९||

येयं प्रेते विचिकित्सा मनुष्येऽस्तीत्येके नायमस्तीति चैके।
एतद्विद्यामनुशिष्टस्त्वयाऽहं वराणामेष वरस्तृतीयः ॥ ||२०||

देवैरत्रापि विचिकित्सितं पुरा न हि सुविज्ञेयमणुरेष धर्मः।
अन्यं वरं नचिकेतो वृणीष्व मा मोपरोत्सीरति मा सृजैनम्‌ ॥ ||२१||

देवैरत्रापि विचिकित्सितं किल त्वं च मृत्यो यन्न सुज्ञेयमात्थ।
वक्ता चास्य त्वादृगन्यो न लभ्यो नान्यो वरस्तुल्य एतस्य कश्चित्‌ ॥ ||२२||

शतायुषः पुत्रपौत्रान्वृणीष्व बहून्पशून्हस्तिहिरण्यमश्वान्‌।
भूमेर्महदायतनं वृणीष्व स्वयं च जीव शरदो यावदिच्छसि ॥ ||२३||

एतत्तुल्यं यदि मन्यसे वरं वृणीष्व वित्तं चिरजीविकां च।
महाभूमौ नचिकेतस्त्वमेधि कामानां त्वां कामभाजं करोमि ॥ ||२४||

ये ये कामा दुर्लभा मर्त्यलोके सर्वान्कामांश्छन्दतः प्रार्थयस्व।
इमा रामाः सरथाः सतूर्या न हीदृशा लम्भनीया मनुष्यैः।
आभिर्मत्प्रत्ताभिः परिचारयस्व नचिकेतो मरणं माऽनुप्राक्शीः ॥ ||२५||

श्वोभावा मर्त्यस्य यदन्तकैतत्सर्वेन्द्रियाणां जरयन्ति तेजः।
अपि सर्वं जीवितमल्पमेव तवैव वाहास्तव नृत्यगीते ॥ ||२६||

न वित्तेन तर्पणीयो मनुष्यो लप्स्यामहे वित्तमद्राक्श्म चेत्त्वा।
जीविष्यामो यावदीशिष्यसि त्वं वरस्तु मे वरणीयः स एव ॥ ||२७||

अजीर्यताममृतानामुपेत्य जीर्यन्मर्त्यः क्वधःस्थः प्रजानन्‌।
अभिध्यायन्वर्णरतिप्रमोदानतिदीर्घे जीविते को रमेत ॥ ||२८||

यस्मिन्निदं विचिकित्सन्ति मृत्यो यत्साम्पराये महति ब्रूहि नस्तत्‌।
योऽयं वरो गूढमनुप्रविष्टो नान्यं तस्मान्नचिकेता वृणीते ॥ ||२९||

वल्ली २
अन्यच्छ्रेयोऽन्यदुतैव प्रेयस्ते उभे नानार्थे पुरुषं सिनीतः।
तयोः श्रेय आददानस्य साधुर्भवति हीयतेऽर्थाद्य उ प्रेयो वृणीते ॥ ||१||

श्रेयश्च प्रेयश्च मनुष्यमेतस्तौ सम्परीत्य विविनक्ति धीरः।
श्रेयो हि धीरोऽभि प्रेयसो वृणीते प्रेयो मन्दो योगक्शेमाद्‌वृणीते ॥ ||२||

स त्वं प्रियान्प्रियरूपांश्च कामानभिध्यायन्नचिकेतोऽत्यस्राक्षीः।
नैतां सृङ्कां वित्तमयीमवाप्तो यस्यां मज्जन्ति बहवो मनुष्याः ॥ ||३||

दूरमेते विपरीते विषूची अविद्या या च विद्येति ज्ञाता।
विद्याभीप्सिनं नचिकेतसं मन्ये न त्वा कामा बहवोऽलोलुपन्त ॥ ||४||

अविद्यायामन्तरे वर्तमानाः स्वयं धीराः पण्डितम्मन्यमानाः।
दन्द्रम्यमाणाः परियन्ति मूढा अन्धेनैव नीयमाना यथान्धाः ॥ ||५||

न साम्परायः प्रतिभाति बालं प्रमाद्यन्तं वित्तमोहेन मूढम्‌।
अयं लोको नास्ति पर इति मानी पुनः पुनर्वशमापद्यते मे ॥ ||६||

श्रवणायापि बहुभिर्यो न लभ्यः शृण्वन्तोऽपि बहवो यं न विद्युः।
आश्चर्यो वक्ता कुशलोऽस्य लब्धाश्चर्यो ज्ञाता कुशलानुशिष्टः ॥ ||७||

न नरेणावरेण प्रोक्त एष सुविज्ञेयो बहुधा चिन्त्यमानः।
अनन्यप्रोक्ते गतिरत्र नास्त्यणीयान् ह्यतर्क्यमणुप्रमाणात्‌ ॥ ||८||

नैषा तर्केण मतिरापनेया प्रोक्तान्येनैव सुज्ञानाय प्रेष्ठ।
यां त्वमापः सत्यधृतिर्बतासि त्वादृङ नो भूयान्नचिकेतः प्रष्टा ॥ ||९||

जानाम्यहं शेवधिरित्यनित्यं न ह्यध्रुवैः प्राप्यते हि ध्रुवं तत्‌।
ततो मया नाचिकेतश्चितोऽग्निरनित्यैर्द्रव्यैः प्राप्तवानस्मि नित्यम्‌ ॥ ||१०||

कामस्याप्तिं जगतः प्रतिष्ठां क्रतोरानन्त्यमभयस्य पारम्‌।
स्तोमं अहदुरुगायं प्रतिष्ठां दृष्ट्वा धृत्या धीरो नचिकेतोऽत्यस्राक्षीः ॥ ||११||

तं दुर्दर्शं गूढमनुप्रविष्टं गुहाहितं गह्वरेष्ठं पुराणम्‌।
अध्यात्मयोगाधिगमेन देवं मत्वा धीरो हर्षशोकौ जहाति ॥ ||१२||

एतच्छ्रुत्वा सम्परिगृह्य मर्त्यः प्रवृह्य धर्म्यमणुमेतमाप्य।
स मोदते मोदनीयं हि लब्ध्वा विवृतं सद्म नचिकेतसं मन्ये ॥ ||१३||

अन्यत्र धर्मादन्यत्राधर्मादन्यत्रास्मात्कृताकृतात्‌।
अन्यत्र भूताच्च भव्याच्च यत्तत्पश्यसि तद्वद ॥ ||१४||

सर्वे वेदा यत्पदमामनन्ति तपांसि सर्वाणि च यद्वदन्ति।
यदिच्छन्तो ब्रह्मचर्यं चरन्ति तत्ते पदं संग्रहेण ब्रवीम्योमित्येतत्‌ ॥ ||१५||

एतद्‌ध्येवाक्षरं ब्रह्म एतद्‌ध्येवाक्षरं परम्‌।
एतद्‌ध्येवाक्षरं ज्ञात्वा यो यदिच्छति तस्य तत्‌ ॥ ||१६||

एतदालम्बनं श्रेष्ठमेतदालम्बनं परम्‌।
एतदालम्बनं ज्ञात्वा ब्रह्मलोके महीयते ॥ ||१७||

न जायते म्रियते वा विपश्चिन्नायं कुतश्चिन्न बभूव कश्चित्‌।
अजो नित्यः शाश्वतोऽयं पुराणो न हन्यते हन्यमाने शरीरे ॥ ||१८||

हन्ता चेन्मन्यते हन्तुं हतश्चेन्मन्यते हतम्‌।
उभौ तौ न विजानीतो नायं हन्ति न हन्यते ॥ ||१९||

अणोरणीयान्महतो महीयानात्मास्य जन्तोर्निहितो गुहायाम्‌।
तमक्रतुः पश्यति वीतशोको धातुप्रसादान्महिमानमात्मनः ॥ ||२०||

आसीनो दूरं व्रजति शयानो याति सर्वतः।
कस्तं मदामदं देवं मदन्यो ज्ञातुमर्हति ॥ ||२१||

अशरीरं शरीरेष्वनवस्थेष्ववस्थितम्‌।
महान्तं विभुमात्मानं मत्वा धीरो न शोचति ॥ ||२२||

नायमात्मा प्रवचनेन लभ्यो न मेधया न बहुना श्रुतेन।
यमेवैष वृणुते तेन लभ्यस्तस्यैष आत्मा विवृणुते तनूं स्वाम्‌ ॥ ||२३||

नाविरतो दुश्चरितान्नाशान्तो नासमाहितः।
नाशान्तमानसो वापि प्रज्ञानेनैनमाप्नुयात्‌ ॥ ||२४||

यस्य ब्रह्म च क्षत्रं च उभे भवत ओदनः।
मृत्युर्यस्योपसेचनं क इत्था वेद यत्र सः ॥ ||२५||

वल्ली ३
ऋतं पिबन्तौ सुकृतस्य लोके गुहां प्रविष्टौ परमे परार्धे।
छायातपौ ब्रह्मविदो वदन्ति पञ्चाग्नयो ये च त्रिणाचिकेताः ॥ ||१||

यः सेतुरीजानानामक्षरं ब्रह्म यत्परम्‌।
अभयं तितीर्षतां पारं नाचिकेतं शकेमहि ॥ ||२||

आत्मानं रथिनं विद्धि शरीरं रथमेव तु।
बुद्धिं तु सारथिं विद्धि मनः प्रग्रहमेव च ॥ ||३||

इन्द्रियाणि हयानाहुर्विषयांस्तेषु गोचरान्‌।
आत्मेन्द्रियमनोयुक्तं भोक्तेत्याहुर्मनीषिणः ॥ ||४||

यस्त्वविज्ञानवान्भवत्ययुक्तेन मनसा सदा
तस्येन्द्रियाण्यवश्यानि दुष्टाश्वा इव सारथेः ॥ ||५||

यस्तु विज्ञानवान्भवति युक्तेन मनसा सदा
तस्येन्द्रियाणि वश्यानि सदश्वा इव सारथेः ॥ ||६||

यस्त्वविज्ञानवान्भवत्यमनस्कः सदाऽशुचिः।
न स तत्पदमाप्नोति संसारं चाधिगच्छति ॥ ||७||

यस्तु विज्ञानवान्भवति समनस्कः सदा शुचिः।
स तु तत्पदमाप्नोति यस्माद् भूयो न जायते ॥ ||८||

विज्ञानसारथिर्यस्तु मनः प्रग्रहवान्नरः।
सोऽध्वनः पारमाप्नोति तद्विष्णोः परमं पदम्‌ ॥ ||९||

इन्द्रियेभ्यः परा ह्यर्था अर्थेभ्यश्च परं मनः।
मनसस्तु परा बुद्धिर्बुद्धेरात्मा महान्परः ॥ ||१०||

महतः परमव्यक्तमव्यक्तात्पुरुषः परः।
पुरुषान्न परं किंचित्सा काष्ठा सा परा गतिः ॥ ||११||

एष सर्वेषु भूतेषु गूढोऽऽत्मा न प्रकाशते।
दृश्यते त्वग्र्यया बुद्ध्या सूक्ष्मया सूक्ष्मदर्शिभिः ॥ ||१२||

यच्छेद्वाङ्मनसी प्राज्ञस्तद्यच्छेज्ज्ञान आत्मनि।
ज्ञानमात्मनि महति नियच्छेत्तद्यच्छेच्छान्त आत्मनि ॥ ||१३||

उत्तिष्ठत जाग्रत प्राप्य वरान्निबोधत।
क्षुरस्य धारा निशिता दुरत्यया दुर्गं पथस्तत्कवयो वदन्ति ॥ ||१४||

अशब्दमस्पर्शमरूपमव्ययं तथाऽरसं नित्यमगन्धवच्च यत्‌।
अनाद्यनन्तं महतः परं ध्रुवं निचाय्य तन्मृत्युमुखात्‌ प्रमुच्यते ॥ ||१५||

नाचिकेतमुपाख्यानं मृत्युप्रोक्तं सनातनम्‌।
उक्त्वा श्रुत्वा च मेधावी ब्रह्मलोके महीयते ॥ ||१६||

य इमं परमं गुह्यं श्रावयेद्‌ ब्रह्मसंसदि।
प्रयतः श्राद्धकाले वा तदानन्त्याय कल्पते।
तदानन्त्याय कल्पत इति ॥ ||१७||

अध्याय २
वल्ली १
पराञ्चिखानि व्यतृणत्स्वयंभूस्तस्मात्पराङ्पश्यति नान्तरात्मन्‌।
कश्चिद्धीरः प्रत्यगात्मानमैषदावृत्तचक्षुरमृतत्वमिच्छन्‌ ॥ ||१||

पराचः कामाननुयन्ति बालास्ते मृत्योर्यन्ति विततस्य पाशम्‌।
अथ धीरा अमृतत्वं विदित्वा ध्रुवमध्रुवेष्विह न प्रार्थयन्ते ॥ ||२||

येन रूपं रसं गन्धं शब्दान्स्पर्शांश्च मैथुनान्‌।
एतेनैव विजानाति किमत्र परिशिष्यते। एतद्वै तत्‌ ॥ ||३||

स्वप्नान्तं जागरितान्तं चोभौ येनानुपश्यति।
महान्तं विभुमात्मानं मत्वा धीरो न शोचति ॥ ||४||

य इमं मध्वदं वेद आत्मानं जीवमन्तिकात्‌।
ईशानं भूतभव्यस्य न ततो विजुगुप्सते। एतद्वै तत्‌ ॥ ||५||

यः पूर्वं तपसो जातमद्‌भ्यः पूर्वमजायत।
गुहां प्रविश्य तिष्ठन्तं यो भूतेभिर्व्यपश्यत। एतद्वै तत्‌ ॥ ||६||

या प्राणेन संभवत्यदितिर्देवतामयी।
गुहां प्रविश्य तिष्ठन्तीं या भूतेभिर्व्यजायत। एतद्वै तत्‌ ॥ ||७||

अरण्योर्निहितो जातवेदा गर्भ इव सुभृतो गर्भिणीभिः।
दिवे दिवे ईड्यो जागृवद्भिर्हविष्मद्भिर्मनुष्येभिरग्निः। एतद्वै तत्‌ ॥ ||८||

यतश्चोदेति सूर्योऽस्तं यत्र च गच्छति।
तं देवाः सर्वेऽर्पितास्तदु नात्येति कश्चन। एतद्वै तत्‌ ॥ ||९||

यदेवेह तदमुत्र यदमुत्र तदन्विह।
मृत्योः स मृत्युमाप्नोति य इह नानेव पश्यति ॥ ||१०||

मनसैवेदमाप्तव्यं नेह नानाऽस्ति किंचन।
मृत्योः स मृत्युं गच्छति य इह नानेव पश्यति ॥ ||११||

अंगुष्ठमात्रः पुरुषो मध्य आत्मनि तिष्ठति।
ईशानो भूतभव्यस्य न ततो विजुगुप्सते। एतद्वै तत्‌ ॥ ||१२||

अंगुष्ठमात्रः पुरुषो ज्योतिरिवाधूमकः।
ईशानो भूतभव्यस्य स एवाद्य स उ श्वः। एतद्वै तत्‌ ॥ ||१३||

यथोदकं दुर्गं वृष्टं पर्वतेषु विधावति।
एवं धर्मान्पृथक्‌ पश्यंस्तानेवानुविधावति ॥ ||१४||

यथोदकं शुद्धे शुद्धमासिक्तं तादृगेव भवति।
एवं मुनेर्विजानत आत्मा भवति गौतम ॥ ||१५||

वल्ली २
पुरमेकादशद्वारमजस्यावक्रचेतसः।
अनुष्ठाय न शोचति विमुक्तश्च विमुच्यते। एतद्वै तत्‌ ॥ ||१||

हंसः शुचिषद्वसुरान्तरिक्षसद्धोता वेदिषदतिथिर्दुरोणसत्‌।
नृषद्वरसदृतसद्व्योमसदब्जा गोजा ऋतजा अद्रिजा ऋतं बृहत्‌ ॥ ||२||

ऊर्ध्वं प्राणमुन्नयत्यपानं प्रत्यगस्यति।
मध्ये वामनमासीनं विश्वे देवा उपासते ॥ ||३||

अस्य विस्रंसमानस्य शरीरस्थस्य देहिनः।
देहाद्विमुच्यमानस्य किमत्र परिशिष्यते। एतद्वै तत्‌ ॥ ||४||

न प्राणेन नापानेन मर्त्यो जीवति कश्चन।
इतरेण तु जीवन्ति यस्मिन्नेतावुपाश्रितौ ॥ ||५||

हन्त त इदं प्रवक्ष्यामि गुह्यं ब्रह्म सनातनम्‌।
यथा च मरणं प्राप्य आत्मा भवति गौतम ॥ ||६||

योनिमन्ये प्रपद्यन्ते शरीरत्वाय देहिनः।
स्थाणुमन्येऽनुसंयन्ति यथाकर्म यथाश्रुतम्‌ ॥ ||७||

य एष सुप्तेषु जागर्ति कामं कामं पुरुषो निर्मिमाणः।
तदेव शुक्रं तद् ब्रह्म तदेवामृतमुच्यते।
तस्मिंल्लोकाः श्रिताः सर्वे तदु नात्येति कश्चन। एतद्वै तत्‌ ॥ ||८||

अग्निर्यथैको भुवनं प्रविष्टो रूपं रूपं प्रतिरूपो बभूव।
एकस्तथा सर्वभूतान्तरात्मा रूपं रूपं प्रतिरूपो बहिश्च ॥ ||९||

वायुर्यथैको भुवनं प्रविष्टो रूपं रूपं प्रतिरूपो बभूव।
एकस्तथा सर्वभूतान्तरात्मा रूपं रूपं प्रतिरूपो बहिश्च ॥ ||१०||

सूर्यो यथा सर्वलोकस्य चक्षुर्न लिप्यते चाक्षुषैर्बह्यिदोषैः।
एकस्तथा सर्वभूतान्तरात्मा न लिप्यते लोकदुःखेन बाह्यः ॥ ||११||

एको वशी सर्वभूतान्तरात्मा एकं रूपं बहुधा यः करोति।
तमात्मस्थं येऽनुपश्यन्ति धीरास्तेषां सुखं शाश्वतं नेतरेषाम्‌ ॥ ||१२||

नित्योऽनित्यानां चेतनश्चेतनानामेको बहूनां यो विदधाति कामान्‌।
तमात्मस्थं येऽनुपश्यन्ति धीरास्तेषां शान्तिः शाश्वती नेतरेषाम्‌ ॥ ||१३||

तदेतदिति मन्यन्तेऽनिर्देश्यं परमं सुखम्‌।
कथं नु तद्विजानीयां किमु भाति विभाति वा ॥ ||१४||

न तत्र सूर्यो भाति न चन्द्रतारकं नेमा विद्युतो भान्ति कुतोऽयमग्निः।
तमेव भान्तमनुभाति सर्वं तस्य भासा सर्वमिदं विभाति ॥ ||१५||

वल्ली ३
ऊर्ध्वमूलोऽवाक्‍शाख एषोऽश्वत्थः सनातनः।
तदेव शुक्रं तद् ब्रह्म तदेवामृतमुच्यते।
तस्मिंल्लोकाः श्रिताः सर्वे तदु नात्येति कश्चन। एतद्वै तत्‌ ॥ ||१||

यदिदं किं च जगत्सर्वं प्राण एजति निःसृतम्‌।
महद् भयं वज्रमुद्यतं य एतद्विदुरमृतास्ते भवन्ति ॥ ||२||

भयादस्याग्निस्तपति भयात्तपति सूर्यः।
भयादिन्द्रश्च वायुश्च मृत्युर्धावति पञ्चमः ॥ ||३||

इह चेदशकद्‌बोद्धुं प्राक् शरीरस्य विस्रसः।
ततः सर्गेषु लोकेषु शरीरत्वाय कल्पते ॥ ||४||

यथाऽऽदर्शे तथाऽऽत्मनि यथा स्वप्ने तथा पितृलोके।
यथाऽप्सु परीव ददृशे तथा गन्धर्वलोके छायातपयोरिव ब्रह्मलोके ॥ ||५||

इन्द्रियाणां पृथग्भावमुदयास्तमयौ च यत्‌।
पृथगुत्पद्यमानानां मत्वा धीरो न शोचति ॥ ||६||

इन्द्रियेभ्यः परं मनो मनसः सत्त्वमुत्तमम्‌।
सत्त्वादधि महानात्मा महतोऽव्यक्तमुत्तमम्‌ ॥ ||७||

अव्यक्तात्तु परः पुरुषो व्यापकोऽलिङ्ग एव च।
यं ज्ञात्वा मुच्यते जन्तुरमृतत्वं च गच्छति ॥ ||८||

न संदृशे तिष्ठति रूपमस्य न चक्षुषा पश्यति कश्चनैनम्‌।
हृदा मनीषा मनसाऽभिक्लृप्तो य एतद्विदुरमृतास्ते भवन्ति ॥ ||९||

यदा पञ्चावतिष्ठन्ते ज्ञानानि मनसा सह।
बुद्धिश्च न विचेष्टते तामाहुः परमां गतिम्‌ ॥ ||१०||

तां योगमिति मन्यन्ते स्थिरामिन्द्रियधारणाम्‌।
अप्रमत्तस्तदा भवति योगो हि प्रभवाप्ययौ ॥ ||११||

नैव वाचा न मनसा प्राप्तुं शक्यो न चक्षुषा।
अस्तीति ब्रुवतोऽन्यत्र कथं तदुपलभ्यते ॥ ||१२||

अस्तीत्येवोपलब्धव्यस्तत्त्वभावेन चोभयोः।
अस्तीत्येवोपलब्धस्य तत्त्वभावः प्रसीदति ॥ ||१३||

यदा सर्वे प्रमुच्यन्ते कामा येऽस्य हृदि श्रिताः।
अथ मर्त्योऽमृतो भवत्यत्र ब्रह्म समश्नुते ॥ ||१४||

यथा सर्वे प्रभिद्यन्ते हृदयस्येह ग्रन्थयः।
अथ मर्त्योऽमृतो भवत्येतावद्ध्यनुशासनम्‌ ॥ ||१५||

शतं चैका च हृदयस्य नाड्यस्तासां मूर्धानमभिनिःसृतैका।
तयोर्ध्वमायन्नमृतत्वमेति विश्वङ्ङन्या उत्क्रमणे भवन्ति ॥ ||१६||

अङ्गुष्ठमात्रः पुरुषोऽन्तरात्मा सदा जनानां हृदये संनिविष्टः।
तं स्वाच्छरीरात्प्रवृहेन्मुञ्जादिवेषीकां धैर्येण।
तं विद्याच्छुक्रममृतं तं विद्याच्छुक्रममृतमिति ॥ ||१७||

मृत्युप्रोक्तां नचिकेतोऽथ लब्ध्वा विद्यामेतां योगविधिं च कृत्स्नम्‌।
ब्रह्मप्राप्तो विरजोऽभूद्विमृत्यु रन्योऽप्येवं यो विदध्यात्ममेव ॥ ||१८||